Srimad Valmiki Ramayanam

Balakanda Sarga 52

Viswamitra accepts Sage Vasistha's hospitality !!

|| om tat sat ||

बालकांड
द्विपंचाशस्सर्गः
Balakanda
Fifty second Sarga

स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः ।
प्रणतो विनयाद्वीरो वसिष्ठं जपतां वरम् ॥

स॥ महाबलः वीरः विश्वामित्रो स दृष्ट्वा परमप्रीतो विनयात् जपतां वरं वसिष्ठं प्रणतो ॥

Delighted seeing the same the mighty and strong Viswamitra then offered salutations with due respect to the sage Vasishta who is the best among those who to meditate.

स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना ।
आसनं चाप्य भगवान् वसिष्ठो व्यादिदेश ह ॥

स॥ महात्मना वसिष्ठेन स्वागतं तव चेत् उक्तः । भगवन् वसिष्ठो आसनं च अपि व्यादिदेश ह॥

The great soul that is Vasishta told him" Welcome to you". Then offered him a seat too.

उपविष्ठाय च तदा विश्वामित्राय धीमते ।
यथा न्यायं मुनिवरः फलमूलान्युपाहरत् ॥

स॥ तदा मुनिवरः धीमते विश्वामित्राय उपविष्ठाय यथा न्यायं फलान्युपाहरत् ॥

Then the best of sages made the high-minded Viswamitra to sit and offered him fruits etc as per the practice.

प्रतिगुह्य तु तां पूजांवसिष्ठात् राजसत्तमः ।
तपोsग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत ॥
विश्वामित्रो महातेजा वनस्पति गणे तथा ।
सर्वत्र कुशलं चाह वसिष्ठो राजसत्तमम्॥

स॥ राजसत्तमः वसिष्ठात् तां पूजां प्रतिगुह्य तपः अग्निहोत्रः शिष्येषु तथा वनस्पति गणे कुशलं तथा पर्यपृच्छत ॥ वसिष्ठः राजसत्तमम् सर्वत्र कुशलं च आह ॥

That best of kings having received the worship offered by Vasishta, then enquired about the penance, the fire rituals, and his students. In the same way he enquired about the forest wealth too. Vasishta then told him that everything is fine .

सुखोपविष्ठं राजानं विश्वामित्रं महातपाः ।
पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणस्सुतः ॥

स॥ जपतां श्रेष्ठः महातपाः ब्रह्मणस्सुतः वसिष्ठो सुखोपविष्ठं विश्वामित्रं राजानं प्रपच्छ ॥

Vasishta who is the best among sages and also son of Brahma,then addressed the King Viswamitra seated comfortably.

कच्चित् ते कुशलं राजन् कच्चिद्धर्मेण रंजयन् ।
प्रजाः पालयसे वीर राजवृत्तेन धार्मिक ॥
कच्चित् ते संभृता भृत्याः कच्चित् तिष्ठंति शासने ।
कच्चित् ते विजितास्सर्वे रिपवो रिपुसूदन ॥
कच्चित् बलेषु कोशेषु मित्रेषु च परंतपः ।
कुशलं ते नरव्याघ्र पुत्त्रपौत्रे तवानघ ॥

स॥ राजन् ! ते कुशलं कच्चित् । वीर धार्मिक राजवृत्तेन धर्मेण प्रजाः पालयसे रंजयन् कच्चित् ? ते भृत्याः संभृता कच्चित् । (ते) शासने तिष्ठंति कच्चित् । रिपुसूदन ! ते सर्वे रिपवो विजिताः कच्चित् । हे परंतपः बलेषु मित्रेषु कोशेषु कच्चित् । हे नरव्याघ्र अनघा! ते पुत्त्र पौत्त्रे कुशलं ।

"Oh King ! Hope you are doing well. oh Dharmika ! Oh Vira ! Hope as a Royal responsibility following the righteous path and taking care of the people you are making them happy. Hope you are taking care of your staff. Hope they are following orders. Oh King! Hope you defeated all your enemies. O Tormentor of foes ! Hope your forces, friends, treasury are fine . O Anagha! Hope your children and grand children are fine too!
सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत् ।
विश्वामित्रो महातेजा वसिष्ठं विनयान्वितः ॥

स॥ विश्वामित्रो महातेजा विनयान्वितः वसिष्ठं सर्वत्र कुशलं (इति) प्रत्युदाहरत् ॥

The most powerful Viswamitra replied the sage Vasishta with due respect saying all are fine !

कृत्वोभौ सुचिरं कालं धर्मिष्ठौ तौ कथाश्शुभाः ।
मुदा परमया युक्तौ प्रीयेतां तौ परस्परम्॥

स॥ मुदा परमया तौ धर्मिष्ठौ सुचिरं कालं परस्परं प्रीयेतां शुभाः कथाः युक्तौ ॥

Thus with great happiness the two followers of dharma had a long and pleasing conversation exchanging auspicious stories

ततो वसिष्ठौ भगवान् कथांते रघुनंदन ।
विश्वामित्रमिदं वाक्यं उवाच प्रहसन्निव ॥

स॥ हे रघुनंदन ततः कथांते भगवान् वसिष्ठः विश्वामित्रं इदं वाक्यं प्रहसन्निव उवाच ॥

'Oh Raghunandana ! Then towards the end of that conversation venerable Vasishta spoke to Viswamitra with a smile'.
अतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल ।
तव चैवाप्रमेयस्य यथार्हं संप्रतीच्छमे ॥
सत् क्रियांतु भवानेतां प्रतीच्चतु मयोद्यताम्।
राजा त्वं अतिथि श्रेष्ठः पूजनीयः प्रयत्नतः ॥

स॥ ( हे) महाबल अस्य बलस्य तव च एव यथार्हं संप्रतीच्च मे अतिथ्यं कर्तु मिच्चामि॥ भवान् एतां मयोद्यतां सत् क्रियां तु प्रतीच्चतु । राजा त्वं अतिथि श्रेष्ठः प्रयत्नतः पूजनीयः ॥

"Oh Powerful one ! I want to extend you and your forces our hospitality. Please accept our hospitality. O King you are the best among the guests one can have and you deserve our honors".

एवमुक्तो वसिष्ठेन विश्वामित्रो महामुनिः ।
कृतमित्यब्रवीत् राजा प्रियवाक्येन मे त्वया ॥
फलमूलेन भगवन् विद्यते यत्तवाश्रमे ।
पाद्ये नाचमनायेन भगवद्दर्शनेनच ।
सर्वथा च महाप्राज्ञ पूजर्हेण सुपूजितः ।
गमिष्यामि नमस्ते अस्तु मैत्रेणेक्षस्व चक्षुसा ॥

स॥ एवमुक्तो महामुनिः वशिष्ठेन राजा विश्वामित्रः मे त्वया प्रियवाक्येन ( आतिथ्यं) कृतं इति अब्रवीत् । भगवन् ! यत् तवाश्रमे विद्यते फलमूलेन पाद्येन आचमनायेन भगवत् दर्शनेन च | महाप्राज्ञ सर्वथा पूजार्हेण सुपूजितः । गमिष्यामि । नमस्ते अस्तु। मैतेण चक्षुसा एक्षस्व ॥

The king Viswamitra then replied to the Venerable sage who spoke as above. " With your pleasing words we have been honored. Oh Bhagavan ! With fruits, refreshments and your presence too we have been honored. Oh Knower of everything ! In all respects we have been honored by one who is himself is in all respects honourable. Please cast glances of friendship on us. I will go. Salutations to you".

एवं ब्रुवंतं राजानं वसिष्ठः पुनरेवहि ।
न्यमंत्रयत धर्मात्मा पुनः पुनारुदारधीः ॥

स॥ एवं ब्रुवंतं राजानं धर्मात्मा उदारधीः वशिष्ठः पुनरेवहि पुनः पुनः न्यमंत्रयत।

Vasishta who is righteous and who is generous then again and again requested the king who replied as above.

भाडमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह ।
यथा प्रियं भगवतः तथास्तु मुनिपुंगव॥

स॥ गाधेयो वसिष्ठं भाढमित्येव प्रत्युवाच ह । मुनिपुंगवः भगवतः यथा प्रियं तथास्तु ॥

Then the son of Gadhi agreeing with Vasishta spoke as follows ." Oh Bhagavan ! Oh best of sages ! Let it be as you wish !"

एवमुक्तो महातेजा वसिष्ठो जपतां वरः ।
अजुहाव ततः प्रीतः कल्माषीं धूत कल्मषः ॥

स॥ एवं उक्तः महातेजो जपतां वरः वसिष्ठः ततः प्रीतः कल्माषीं धूतकल्मषः अजुहाव ॥

'Having been told thus the Vasishta the best among those with riches of penance called the speckled cow (Kamadhenu)'

एह्येहि शबले क्षिप्रं शृणु चापि वचो मम ।
सबलस्यास्य राजर्षेः कर्तुं व्यवसितोsस्म्यहम्॥
भोजनेन महार्हेण सत्कारं संविधत्य्वमे ||
यस्य यस्य यथा कामं षड्रसेष्वभिपूजितम् |
तत्सर्वं कामधुक् क्षिप्रम् अभिवर्षकृते मम ||

स॥ हे शबले क्षिप्रं एहि एहि । मम वचः शृणु च अपि । राजर्षेः अस्य बलस्य अहं कर्तुं व्यवसितोश्मि ॥भोजनेन महार्हेण सत्कारं संविधत्स्य मॆ ।मम अभिवर्षकृते यस्य यस्य यथा कामं षड्रसेष्व अभिपूजितम् तत्सर्वं कामधुक् क्षिप्रं।

"Oh Sabala quickly come come ! Hear my words. The king and his army are to be feasted. Oh Kamadhenu please shower food of six tastes on all as per each of their desire and requirement to their satisfaction".

रसान्नेन पानेन लेह्यचोष्येण संयुतम् ॥
अन्नानां निचयं सर्वं सृजस्व शबले त्वर ॥

स॥ हे शबले रसान्नेन पानेन लेह्यचोष्येण संयुतं सर्वं अन्नानां त्वर सृजस्व॥

"O Sabala ! Please quickly present varieties of food including juices and solids".

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे द्विपंचाशस्सर्गः ॥

Thus the fifty second sarga of Balakanda in Valmiki Ramayana comes to an end.

॥ओम् तत् सत् ॥
|| om tat sat ||